{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

श्रीगोविन्ददामोदरस्तोत्र




देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.

A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.

Content
श्रीगोविन्ददामोदरस्तोत्र

अग्रे कुरूणामथ पाण्डवानां दुःशासनेनाहृतवस्त्रकेशा । कृष्णा तदाक्रोशदनन्यनाथा गोविन्द दामोदर माधवेति ॥ १॥

श्रीकृष्ण विष्णो मधुकैटभारे भक्तानुकम्पिन् भगवन् मुरारे । त्रायस्व मां केशव लोकनाथ गोविन्द दामोदर माधवेति ॥ २॥

विक्रेतुकामाखिलगोपकन्या मुरारिपादार्पितचित्तवृत्तिः । दध्यादिकं मोहवशादवोचद् गोविन्द दामोदर माधवेति ॥ ३॥

उलूखले सम्भृततण्डुलाश्च संघट्टयन्त्यो मुसलैः प्रमुग्धाः । गायन्ति गोप्यो जनितानुरागा गोविन्द दामोदर माधवेति ॥ ४॥

काचित्कराम्भोजपुटे निषण्णं क्रीडाशुकं किंशुकरक्ततुण्डम् । अध्यापयामास सरोरुहाक्ष्ही गोविन्द दामोदर माधवेति ॥ ५॥

गृहे गृहे गोपवधूसमूहः प्रतिक्षणं पिञ्जरसाइरिकाणाम् । स्खलद्गिरम् वाचयितुं प्रवृत्तो गोविन्द दामोदर माधवेति ॥ ६॥

पर्य्यङ्किकाभाजमलं कुमारं प्रस्वापयन्त्योऽखिलगोपकन्याः । जगुः प्रबन्धं स्वरतालबन्धं गोविन्द दामोदर माधवेति ॥ ७॥

रामानुजं वीक्षणकेलिलोलं गोपी गृहीत्वा नवनीतगोलं । आबालकम् बालकमाजुहाव गोविन्द दामोदर माधवेति ॥ ८॥

विचित्रवर्णाभरणाभिरामेऽभिधेहि वक्त्राम्बुजराजहंसि । सदा मदीये रसनेऽग्ररङ्गे गोविन्द दामोदर माधवेति ॥ ९॥

अङ्काधिरूढं शिशुगोपगूढं स्तनं धयन्तं कमलैककान्तम् । सम्बोधयामास मुदा यशोदा गोविन्द दामोदर माधवेति ॥ १०॥

क्रीडन्तमन्तर्व्रजमात्मजं स्वं समं वयस्यैः पशुपालवालैः । प्रेम्णा यशोदा प्रजुहाव कृष्णं गोविन्द दामोदर माधवेति ॥ ११॥

यशोदया गाढमुलूखलेन गोकण्ठपाशेन निबध्यमानः । रुरोद मन्दं नवनीतभोजी गोविन्द दामोदर माधवेति ॥ १२॥

निजाङ्गने कङ्कणकेलिलोलं गोपी गृहीत्वा नवनीतगोलं । आमर्दयत्पाणितलेन नेत्रे गोविन्द दामोदर माधवेति ॥ १३॥

गृहे गृहे गोपवधूकदम्बाः सर्वे मिलित्वा समवाययोगे । पुण्यानि नामानि पठन्ति नित्यं गोविन्द दामोदर माधवेति ॥ १४॥

मन्दारमूले वदनाभिरामं विम्बाधरे पूरितवेणुनादम् । गोगोपगोपीजनमध्यसंस्थं गोविन्द दामोदर माधवेति ॥ १५॥

उत्थाय गोप्योऽपररात्रभागे स्मृत्वा यशोदसुतबालकेलिम् । गायन्ति प्रोच्चैर्दधि मन्थयन्त्यो गोविन्द दामोदर माधवेति ॥ १६॥

जग्धोऽथ दत्तो नवनीतपिण्डो गृहे यशोदा विचिकित्सयन्ती । उवाच सत्यं वद हे मुरारे गोविन्द दामोदर माधवेति ॥ १७॥

अभ्यर्च्य गेहं युवतिः प्रवृद्धप्रेमप्रवाहा दधि निर्ममन्थ । गायन्ति गोप्योऽथ सखीसमेता गोविन्द दामोदर माधवेति ॥ १८॥

क्वचित् प्रभाते दधिपूर्णपात्रे निक्षिप्य मन्थं युवती मुकुन्दम् । आलोक्य गानं विविधं करोति गोविन्द दामोदर माधवेति ॥ १९॥

क्रीडापरं भोजनमज्जनार्थं हितैषिणी स्त्री तनुजं यशोदा । आजूहवत् प्रेमपरिप्लुताक्षी गोविन्द दामोदर माधवेति ॥ २०॥

सुखं शयानं निलये च विष्णुं देवर्षिमुख्या मुनयः प्रपन्नाः । तेनाच्युते तन्मयतां व्रजन्ति गोविन्द दामोदर माधवेति ॥ २१॥

विहाय निद्रामरुणोदये च विधाय कृत्यानि च विप्रमुख्याः । वेदावसाने प्रपठन्ति नित्यं गोविन्द दामोदर माधवेति ॥ २२॥

वृन्दावने गोपगणाश्च गोप्यो विलोक्य गोविन्दवियोगखिन्नम् । राधां जगुः साश्रुविलोचनाभ्यां गोविन्द दामोदर माधवेति ॥ २३॥

प्रभातसञ्चारगता नु गावस्तद्रक्षणार्थं तनयं यशोदा । प्राबोधयत् पाणितलेन मन्दं गोविन्द दामोदर माधवेति ॥ २४॥

प्रबालशोभा इव दीर्घकेशा वाताम्बुपर्णाशनपूतदेहाः । मूले तरूणां मुनयः पठन्ति गोविन्द दामोदर माधवेति ॥ २५॥

एवं ब्रुवाणा विरहातुरा भृशं व्रजस्त्रियः कृष्णविषक्तमानसाः । विसृज्य लज्जां रुरुदुः स्म सुखरं गोविन्द दामोदर माधवेति ॥ २६॥

गोपी कदाचिन्मणिपिञ्जरस्थं शुकं वचो वाचयितुं प्रवृत्ता । आनन्दकन्द व्रजचन्द्र कृष्ण गोविन्द दामोदर माधवेति ॥ २७॥

गोवत्सबालैः शिशुकाकपक्षं बध्नन्तमम्भोजदलायताक्षम् । उवाच माता चिबुकं गृहीत्वा गोविन्द दामोदर माधवेति ॥ २८॥

प्रभातकाले वरवल्लवौघा गोरक्षणार्थं धृतवेत्रदण्डाः । आकारयामासुरनन्तमाद्यं गोविन्द दामोदर माधवेति ॥ २९॥

जलाशये कालियमर्दनाय यदा कदम्बादपतन्मुरारिः । गोपाङ्गनाश्चुक्रुशुरेत्य गोपा गोविन्द दामोदर माधवेति ॥ ३०॥

अक्रूरमासाद्य यदा मुकुन्दश्चापोत्सवार्थं मथुरां प्रविष्ठः । तदा स पौरैर्जयतीत्यभाषि गोविन्द दामोदर माधवेति ॥ ३१॥

कंसस्य दूतेन् यदैव नीतौ वृन्दावनान्ताद् वसुदेवसूनू । रुरोद गोपी भवनस्य मध्ये गोविन्द दामोदर माधवेति ॥ ३२॥

सरोवरे कालियनागबद्धं शिशुं यशोदातनयं निशम्य । चक्रुर्लुठन्त्यः पथि गोपबाला गोविन्द दामोदर माधवेति ॥ ३३॥

अक्रूरयाने यदुवंशनाथं संगच्छमानं मथुरां निरीक्ष्य । ऊचुर्वियोगत् किलगोपबाला गोविन्द दामोदर माधवेति ॥ ३४॥

चक्रन्द गोपी नलिनीवनान्ते कृष्णेन हीना कुसुमे शयाना । प्रफुल्लनीलोत्पललोचनाभ्यां गोविन्द दामोदर माधवेति ॥ ३५॥

मातापितृभ्यां परिवार्यमाणा गेहं प्रविष्टा विललाप गोपी । आगत्य मां पालय विश्वनाथ गोविन्द दामोदर माधवेति ॥ ३६॥

वृन्दावनस्थं हरिमाशु बुद्ध्वा गोपी गता कापि वनं निशायाम् । तत्राप्यदृष्ट्वातिभयादवोचद् गोविन्द दामोदर माधवेति ॥ ३७॥

सुखं शयाना निलये निजेऽपि नामानि विष्णो प्रवदन्ति मर्त्याः । ते निश्चितं तन्मयतां व्रजन्ति गोविन्द दामोदर माधवेति ॥ ३८॥

सा नीरजाक्षीमवलोक्य राधां रुरोद गोविन्दवियोगखिन्नाम् । सखी प्रफुल्लोत्पललोचनाभ्यां गोविन्द दामोदर माधवेति ॥ ३९॥

जिह्वे रसज्ञे मधुरप्रिया त्वं सत्यं हितं त्वं परमं वदामि । आवर्णयेथा मधुराक्षराणि गोविन्द दामोदर माधवेति ॥ ४०॥

आत्यन्तिकव्याधिहरं जनानां चिकित्सकं वेदविदो वदन्ति । संसारतापत्रयनाशबीजं गोविन्द दामोदर माधवेति ॥ ४१॥

ताताज्ञया गच्छति रामचन्द्रे सलक्ष्मणेऽरण्यचये ससीते । चक्रन्द रामस्य निजा जनित्री गोविन्द दामोदर माधवेति ॥ ४२॥

एकाकिनी दण्डककाननान्तात् सा नीयमाना दशकन्धरेण । सीता तदाक्रन्ददनन्यनाथा गोविन्द दामोदर माधवेति ॥ ४३॥

रामाद्वियुक्ता जनकात्मजा सा विचिन्तयन्ती हृदि रामरूपम् । रुरोद सीता रघुनाथ पाहि गोविन्द दामोदर माधवेति ॥ ४४॥

प्रसीद विष्णो रघुवंशनाथ सुरासुराणां सुखदुखःहेतो । रुरोद सीता तु समुद्रमध्ये गोविन्द दामोदर माधवेति ॥ ४५॥

अतर्जले ग्राहगृहीतपादो विसृष्टविक्लिष्टसमस्तबन्धुः । तदा गजेन्द्रो नितरां जगाद गोविन्द दामोदर माधवेति ॥ ४६॥

हंसध्वजः शङ्खयुतो ददर्श पुत्रं कटाहे प्रपतन्तमेनम् । पुण्यानि नामानि हरेर्जपन्तं गोविन्द दामोदर माधवेति ॥ ४७॥

दुर्वाससो वाक्यमुपेत्य कृष्णा सा चाब्रवीत् काननवासिनीशम् । अन्तःप्रविष्टं मनसाजुहाव गोविन्द दामोदर माधवेति ॥ ४८॥

ध्येयः सदा योगिभिरप्रमेयः चिन्ताहरश्चिन्तितपारिजतः । कस्तूरिकाकल्पितनीलवर्णो गोविन्द दामोदर माधवेति ॥ ४९॥

संसारकूपे पतितोऽत्यगाधे मोहान्धपूर्णे विषयाभितप्ते । करावलम्बं मम देहि विष्णो गोविन्द दामोदर माधवेति ॥ ५०॥

त्वामेव याचे मम देहि जिह्वे समागते दण्डधरे कृतान्ते । वक्तव्यमेवं मधुरं सुभक्त्या गोविन्द दामोदर माधवेति ॥ ५१॥

भजस्व मन्त्रं भवबन्धमुत्यै जिह्वे रसज्ञे सुलभं मनोज्ञम् । द्वैपायनाद्यैर्मुनिभिः प्रजप्तं गोविन्द दामोदर माधवेति ॥ ५२॥

गोपाल वंशीधर रूपसिन्धो लोकेश नारायण दीनबन्धो । उच्चस्वरैस्त्वं वद सर्वदैव गोविन्द दामोदर माधवेति ॥ ५३॥

जिह्वे सदैवं भज सुन्दराणि नामानि कृष्णस्य मनोहराणि । समस्तभक्तार्तिविनाशनानि गोविन्द दामोदर माधवेति ॥ ५४॥

गोविन्द गोविन्द हरे मुरारे गोविन्द गोविन्द मुकुन्द कृष्ण । गोविन्द गोविन्द रथाङ्गपाणे गोविन्द दामोदर माधवेति ॥ ५५॥

सुवावसाने त्विदमेव सारं दुःखावसाने त्विदमेव गेयम् । देहवसाने त्विदमेव जाप्यं गोविन्द दामोदर माधवेति ॥ ५६॥

दुर्वारवाक्यं परिगुह्य कृष्णा मृगीव भीता तु कथं कथञ्चित् । सभां प्रविष्टा मनसाजुहाव गोविन्द दामोदर माधवेति ॥ ५७॥

श्रीकृष्ण राधावर गोकुलेश गोपाल गोवर्धन नाथ विष्णो । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ५८॥

श्रीनाथ विश्वेश्वर विश्वमूर्ते श्रीदेवकीनन्दन दैत्यशत्रो । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ५९॥

गोपीपते कंसरिपो मुकुन्द लक्ष्मीपते केशव वासुदेव । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६०॥

गोपीजनाह्लादकर व्रजेश गोचारणारण्यकृतप्रवेश । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६१॥

प्राणेश विश्वम्भर कैटभारे वैकुण्ठ नारायण चक्रपाणे । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६२॥

हरे मुरारे मधुसूदनाद्य श्रीराम सीतावर रावणारे । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६३॥

श्रीयादवेन्द्राद्रिधराम्बुजाक्ष गोगोपगोपीसुखदानदक्ष । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६४॥

धराभरोत्तारणगोपवेष विहारलीलाकृतबन्धुशेष । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६५॥

बकीबकाघासुरधेनुकारे केशीतृणावर्तविघातदक्ष । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६६॥

श्रीजानकीजीवन रामचन्द्र निशाचरारे भरताग्रजेश । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६७॥

नारायणानन्त हरे नृसिंह प्रह्लादबाधाहर हे कृपालो । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६८॥

लीलामनुष्याकृतिरामरूप प्रतापदासीकृतसर्वभूप । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ६९॥

श्रीकृष्ण गोविन्द हरे मुरारे हे नाथ नारायण वासुदेव । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ७०॥

वक्तुं समर्थोऽपि न वक्ति कश्चिदहोओ जनानां व्यसनाभिमुख्यम् । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ ७१॥

इति श्री बिल्वमङ्गलाचार्य विरचितं श्रीगोविन्ददामोदर स्तोत्रं सम्पूर्णम् श्लोक ४२- ४५ पाठान्तर

गोविन्द दामोदर माधवेति स्थानमे हे राम रघुनन्दन राघवेति

Translation - भाषांतर

N/A
Details
References : N/A

Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T21:27:27.0000000Z
|-|-|
Comments | अभिप्राय