{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

सन्तानगोपाल स्तोत्र




देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.

A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.

Content
सन्तानगोपाल स्तोत्र

ॐ श्रीं ह्रीं क्लीं ग्लौं देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥

ॐ नमो भगवते वासुदेवाय ।

सन्तानगोपालस्तोत्रं श्रीशं कमलपत्राक्षं देवकीनन्दनं हरिम् । सुतसंप्राप्तये कृष्णं नमामि मधुसूदनम् ॥१॥

नमाम्यहं वासुदेवं सुतसंप्राप्तये हरिम् । यशोदाङ्कगतं बालं गोपालं नन्दनन्दनम्॥ २ ॥

अस्माकं पुत्रलाभाय गोविन्दं मुनिवन्दितम् । नमाम्यहं वासुदेवं देवकीनन्दनं सदा ॥ ३ ॥

गोपालं डिम्भकं वन्दे कमलापतिमच्युतम् । पुत्रसंप्राप्तये कृष्णं नमामि यदुपुङ्गवम् ॥ ४ ॥

पुत्रकामेष्टिफलदं कञ्जाक्षं कमलापतिम् । देवकीनन्दनं वन्दे सुतसम्प्राप्तये मम ॥ ५ ॥

पद्मापते पद्मनेत्रे पद्मनाभ जनार्दन । देहि मे तनयं श्रीश वासुदेव जगत्पते ॥ ६ ॥

यशोदाङ्कगतं बालं गोविन्दं मुनिवन्दितम् । अस्माकं पुत्र लाभाय नमामि श्रीशमच्युतम् ॥ ७ ॥

श्रीपते देवदेवेश दीनार्तिर्हरणाच्युत । गोविन्द मे सुतं देहि नमामि त्वां जनार्दन ॥ ८ ॥

भक्तकामद गोविन्द भक्तं रक्ष शुभप्रद । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ ९ ॥

रुक्मिणीनाथ सर्वेश देहि मे तनयं सदा । भक्तमन्दार पद्माक्ष त्वामहं शरणं गतः ॥ १० ॥

देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ११ ॥

वासुदेव जगद्वन्द्य श्रीपते पुरुषोत्तम । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ १२ ॥

कञ्जाक्ष कमलानाथ परकारुणिकोत्तम । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ १३ ॥

लक्ष्मीपते पद्मनाभ मुकुन्द मुनिवन्दित । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ १४ ॥

कार्यकारणरूपाय वासुदेवाय ते सदा । नमामि पुत्रलाभार्थ सुखदाय बुधाय ते ॥ १५ ॥

राजीवनेत्र श्रीराम रावणारे हरे कवे । तुभ्यं नमामि देवेश तनयं देहि मे हरे ॥ १६ ॥

अस्माकं पुत्रलाभाय भजामि त्वां जगत्पते । देहि मे तनयं कृष्ण वासुदेव रमापते ॥ १७ ॥

श्रीमानिनीमानचोर गोपीवस्त्रापहारक । देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥ १८ ॥

अस्माकं पुत्रसंप्राप्तिं कुरुष्व यदुनन्दन । रमापते वासुदेव मुकुन्द मुनिवन्दित ॥ १९ ॥

वासुदेव सुतं देहि तनयं देहि माधव । पुत्रं मे देहि श्रीकृष्ण वत्सं देहि महाप्रभो ॥२० ॥

डिम्भकं देहि श्रीकृष्ण आत्मजं देहि राघव । भक्तमन्दार मे देहि तनयं नन्दनन्दन ॥ २१ ॥

नन्दनं देहि मे कृष्ण वासुदेव जगत्पते । कमलनाथ गोविन्द मुकुन्द मुनिवन्दित ॥ २२ ॥

अन्यथा शरणं नास्ति त्वमेव शरणं मम । सुतं देहि श्रियं देहि श्रियं पुत्रं प्रदेहि मे ॥ २३ ॥

यशोदास्तन्यपानज्ञं पिबन्तं यदुनन्दनं । वन्देऽहं पुत्रलाभार्थं कपिलाक्षं हरिं सदा ॥ २४ ॥

नन्दनन्दन देवेश नन्दनं देहि मे प्रभो । रमापते वासुदेव श्रियं पुत्रं जगत्पते ॥ २५ ॥

पुत्रं श्रियं श्रियं पुत्रं पुत्रं मे देहि माधव । अस्माकं दीनवाक्यस्य अवधारय श्रीपते ॥ २६ ॥

गोपाल डिम्भ गोविन्द वासुदेव रमापते । अस्माकं डिम्भकं देहि श्रियं देहि जगत्पते ॥ २७ ॥

मद्वाञ्छितफलं देहि देवकीनन्दनाच्युत । मम पुत्रार्थितं धन्यं कुरुष्व यदुनन्दन ॥ २८ ॥

याचेऽहं त्वां श्रियं पुत्रं देहि मे पुत्रसंपदम्। भक्तचिन्तामणे राम कल्पवृक्ष महाप्रभो ॥ २९ ॥

आत्मजं नन्दनं पुत्रं कुमारं डिम्भकं सुतम् । अर्भकं तनयं देहि सदा मे रघुनन्दन ॥ ३० ॥

वन्दे सन्तानगोपालं माधवं भक्तकामदम् । अस्माकं पुत्रसंप्राप्त्यै सदा गोविन्दमच्युतम् ॥ ३१ ॥

ॐकारयुक्तं गोपालं श्रीयुक्तं यदुनन्दनम् । क्लींयुक्तं देवकीपुत्रं नमामि यदुनायकम् ॥ ३२ ॥

वासुदेव मुकुन्देश गोविन्द माधवाच्युत । देहि मे तनयं कृष्ण रमानाथ महाप्रभो ॥ ३३ ॥

राजीवनेत्र गोविन्द कपिलाक्ष हरे प्रभो । समस्तकाम्यवरद देहि मे तनयं सदा ॥ ३४ ॥

अब्जपद्मनिभं पद्मवृन्दरूप जगत्पते । देहि मे वरसत्पुत्रं रमानायक माधव ॥ ३५ ॥

नन्दपाल धरापाल गोविन्द यदुनन्दन । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ ३६ ॥

दासमन्दार गोविन्द मुकुन्द माधवाच्युत । गोपाल पुण्डरीकाक्ष देहि मे तनयं श्रियम् ॥ ३७ ॥

यदुनायक पद्मेश नन्दगोपवधूसुत । देहि मे तनयं कृष्ण श्रीधर प्राणनायक ॥ ३८ ॥

अस्माकं वाञ्छितं देहि देहि पुत्रं रमापते । भगवन् कृष्ण सर्वेश वासुदेव जगत्पते ॥ ३९ ॥

रमाहृदयसंभारसत्यभामामनः प्रिय । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ ४० ॥

चन्द्रसूर्याक्ष गोविन्द पुण्डरीकाक्ष माधव । अस्माकं भाग्यसत्पुत्रं देहि देव जगत्पते ॥ ४१ ॥

कारुण्यरूप पद्माक्ष पद्मनाभसमर्चित । देहि मे तनयं कृष्ण देवकीनन्दनन्दन ॥ ४२ ॥

देवकीसुत श्रीनाथ वासुदेव जगत्पते । समस्तकामफलद देहि मे तनयं सदा ॥ ४३ ॥

भक्तमन्दार गम्भीर शङ्कराच्युत माधव । देहि मे तनयं गोपबालवत्सल श्रीपते ॥ ४४ ॥

श्रीपते वासुदेवेश देवकीप्रियनन्दन । भक्तमन्दार मे देहि तनयं जगतां प्रभो ॥४५ ॥

जगन्नाथ रमानाथ भूमिनाथ दयानिधे । वासुदेवेश सर्वेश देहि मे तनयं प्रभो ॥ ४६ ॥

श्रीनाथ कमलपत्राक्ष वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ४७ ॥

दासमन्दार गोविन्द भक्तचिन्तामणे प्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ४८ ॥

गोविन्द पुण्डरीकाक्ष रमानाथ महाप्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ४९ ॥

श्रीनाथ कमलपत्राक्ष गोविन्द मधुसूदन । मत्पुत्रफलसिद्ध्यर्थं भजामि त्वां जनार्दन ॥ ५० ॥

स्तन्यं पिबन्तं जननीमुखांबुजं विलोक्य मन्दस्मितमुज्ज्वलाङ्गम् ।

स्पृशन्तमन्यस्तनमङ्गुलीभिर्वन्दे यशोदाङ्कगतं मुकुन्दम् ॥ ५१ ॥

याचेऽहं पुत्रसन्तानं भवन्तं पद्मलोचन । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ५२ ॥

अस्माकं पुत्रसम्पत्तेश्चिन्तयामि जगत्पते । शीघ्रं मे देहि दातव्यं भवता मुनिवन्दित ॥ ५३ ॥

वासुदेव जगन्नाथ श्रीपते पुरुषोत्तम । कुरु मां पुत्रदत्तं च कृष्ण देवेन्द्रपूजित ॥ ५४ ॥

कुरु मां पुत्रदत्तं च यशोदाप्रियनन्दनम् । मह्यं च पुत्रसन्तानं दातव्यंभवता हरे ॥ ५५ ॥

वासुदेव जगन्नाथ गोविन्द देवकीसुत । देहि मे तनयं राम कौशल्याप्रियनन्दन ॥ ५६ ॥

पद्मपत्राक्ष गोविन्द विष्णो वामन माधव । देहि मे तनयं सीताप्राणनायक राघव ॥ ५७ ॥

कञ्जाक्ष कृष्ण देवेन्द्रमण्डित मुनिवन्दित । लक्ष्मणाग्रज श्रीराम देहि मे तनयं सदा ॥ ५८ ॥

देहि मे तनयं राम दशरथप्रियनन्दन । सीतानायक कञ्जाक्ष मुचुकुन्दवरप्रद ॥ ५९ ॥

विभीषणस्य या लङ्का प्रदत्ता भवता पुरा । अस्माकं तत्प्रकारेण तनयं देहि माधव ॥ ६० ॥

भवदीयपदांभोजे चिन्तयामि निरन्तरम् । देहि मे तनयं सीताप्राणवल्लभ राघव ॥ ६१ ॥

राम मत्काम्यवरद पुत्रोत्पत्तिफलप्रद । देहि मे तनयं श्रीश कमलासनवन्दित ॥ ६२ ॥

राम राघव सीतेश लक्ष्मणानुज देहि मे । भाग्यवत्पुत्रसन्तानं दशरथप्रियनन्दन ।

देहि मे तनयं राम कृष्ण गोपाल माधव ॥ ६४ ॥

कृष्ण माधव गोविन्द वामनाच्युत शङ्कर । देहि मे तनयं श्रीश गोपबालकनायक ॥ ६५ ॥

गोपबाल महाधन्य गोविन्दाच्युत माधव । देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥ ६६ ॥

दिशतु दिशतु पुत्रं देवकीनन्दनोऽयं दिशतु दिशतु शीघ्रं भाग्यवत्पुत्रलाभम् ।

दिशतु दिशतु शीघ्रं श्रीशो राघवो रामचन्द्रो दिशतु दिशतु पुत्रं वंश विस्तारहेतोः ॥ ६७ ॥

दीयतां वासुदेवेन तनयोमत्प्रियः सुतः । कुमारो नन्दनः सीतानायकेन सदा मम ॥ ६८ ॥

राम राघव गोविन्द देवकीसुत माधव । देहि मे तनयं श्रीश गोपबालकनायक ॥ ६९ ॥

वंशविस्तारकं पुत्रं देहि मे मधुसूदन । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ ७० ॥

ममाभीष्टसुतं देहि कंसारे माधवाच्युत । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥७१ ॥

चन्द्रार्ककल्पपर्यन्तं तनयं देहि माधव । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥७२ ॥

विद्यावन्तं बुद्धिमन्तं श्रीमन्तं तनयं सदा । देहि मे तनयं कृष्ण देवकीनन्दन प्रभो ॥ ७३ ॥

नमामि त्वां पद्मनेत्र सुतलाभाय कामदम् । मुकुन्दं पुण्डरीकाक्षं गोविन्दं मधुसूदनम् ॥ ७४ ॥

भगवन् कृष्ण गोविन्द सर्वकामफलप्रद । देहि मे तनयं स्वामिंस्त्वामहं शरणं गतः ॥ ७५ ॥

स्वामिंस्त्वं भगवन् राम कृष्न माधव कामद । देहि मे तनयं नित्यं त्वामहं शरणं गतः ॥ ७६ ॥

तनयं देहिओ गोविन्द कञ्जाक्ष कमलापते । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥७७ ॥

पद्मापते पद्मनेत्र प्रद्युम्न जनक प्रभो । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ ७८ ॥

शङ्खचक्रगदाखड्गशार्ङ्गपाणे रमापते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ७९ ॥

नारायण रमानाथ राजीवपत्रलोचन । सुतं मे देहि देवेश पद्मपद्मानुवन्दित ॥ ८० ॥

राम राघव गोविन्द देवकीवरनन्दन । रुक्मिणीनाथ सर्वेश नारदादिसुरार्चित ॥ ८१ ॥

देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं श्रीश गोपबालकनायक ॥ ८२ ॥

मुनिवन्दित गोविन्द रुक्मिणीवल्लभ प्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८३ ॥

गोपिकार्जितपङ्केजमरन्दासक्तमानस । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८४ ॥

रमाहृदयपङ्केजलोल माधव कामद । ममाभीष्टसुतं देहि त्वामहं शरणं गतः ॥ ८५ ॥

वासुदेव रमानाथ दासानां मङ्गलप्रद । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८६ ॥

कल्याणप्रद गोविन्द मुरारे मुनिवन्दित । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८७ ॥

पुत्रप्रद मुकुन्देश रुक्मिणीवल्लभ प्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८८ ॥

पुण्डरीकाक्ष गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८९ ॥

दयानिधे वासुदेव मुकुन्द मुनिवन्दित । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ९० ॥

पुत्रसम्पत्प्रदातारं गोविन्दं देवपूजितम् । वन्दामहे सदा कृष्णं पुत्र लाभ प्रदायिनम् ॥ ९१ ॥

कारुण्यनिधये गोपीवल्लभाय मुरारये । नमस्ते पुत्रलाभाय देहि मे तनयं विभो ॥ ९२ ॥

मस्तस्मै रमेशाय रुमिणीवल्लभाय ते । देहि मे तनयं श्रीश गोपबालकनायक ॥ ९३ ॥

नमस्ते वासुदेवाय नित्यश्रीकामुकाय च । पुत्रदाय च सर्पेन्द्रशायिने रङ्गशायिने ॥ ९४ ॥

रङ्गशायिन् रमानाथ मङ्गलप्रद माधव । देहि मे तनयं श्रीश गोपबालकनायक ॥ ९५ ॥

दासस्य मे सुतं देहि दीनमन्दार राघव । सुतं देहि सुतं देहि पुत्रं देहि रमापते ॥ ९६ ॥

यशोदातनयाभीष्टपुत्रदानरतः सदा । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥९७ ॥

मदिष्टदेव गोविन्द वासुदेव जनार्दन । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ९८ ॥

नीतिमान् धनवान् पुत्रो विद्यावांश्च प्रजापते । भगवंस्त्वत्कृपायाश्च वासुदेवेन्द्रपूजित ॥ ९९ ॥

यःपठेत् पुत्रशतकं सोऽपि सत्पुत्रवान् भवेत । श्रीवासुदेवकथितं स्तोत्ररत्नं सुखाय च ॥ १०० ॥

जपकाले पठेन्नित्यं पुत्रलाभं धनं श्रियम् । ऐश्वर्यं राजसम्मानं सद्यो याति न संशयः ॥ १०१ ॥

Translation - भाषांतर

N/A
Details
References : N/A

Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T21:30:28.0000000Z
|-|-|
Comments | अभिप्राय