{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

गोविन्दराजप्रपत्तिः




देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.

A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.

Content
गोविन्दराजप्रपत्तिः

यश्चैकशैलनिकटे कमलापुरीश- गोविन्दराजपदयोरकरोत् प्रपत्तिम् ।

तं वादिभीकरगुरोश्चरणं प्रपद्ये पात्रं गुरुं वरवरं परमं गुरूणाम् ॥१॥

श्रीमन् निदान जगतां निखिलाण्डजात- निर्वाहशक्तिमुखदिव्यगुणैकतान ।

अत्यन्तभोग्यनतदोष निरस्तदोष गोविन्दराज चरणौ शरणं प्रपद्ये ॥२॥

रेखारथाङ्गसरसीरुहवज्रशङ्क- च्छत्राङ्कुशप्रभृतिमङ्गलचिह्नगर्भौ ।

संसारतापहरणे निपुणौ नतानां गोविन्दराज चरणौ शरणं प्रपद्ये ॥३॥

पश्यत्सु सान्द्रभयकौतुकमर्भकेषु प्रौढेषु सत्सु कृतकृत्यपरायणेषु ।

विध्वंसितोर्ध्वशकटावपि बालभावे गोविन्दराज चरणौ शरणं प्रपद्ये ॥४॥

आलम्ब्य बाहुयुगलेन कुमारभावे गाढं कराङ्गुलियुगं किल नन्दपत्न्याः ।

अभ्यस्यमानदशचङ्क्रमणाभिरामौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥५॥

घोषाङ्गनाकरसरोरुहतालनाद- संगीतसंपदनुरूपमनोज्ञनृत्तौ ।

माणिक्यनूपुरमरीचिकृताङ्गलेपौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥६॥

कुट्टाकतामुपगतौ सरसः प्रसह्य मध्येसरित्सलिलमुद्धतकालियस्य ।

तत्सुन्दरीनयननन्दनसंनिवेशौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥७॥

वासांसि देहि तव कृष्ण वशंवदाना- मस्माकमाकुलधियामिति गोपकन्याः ।

उद्दिश्य यौ विदधुरञ्जलिमा प्रसादाद् गोविन्दराज चरणौ शरणं प्रपद्ये ॥८॥

गोरक्षणे किल बभूव यदीयरेणु- रक्रूरमस्तकमणेः सरणिं समेतः ।

तावद्भुतावनुपमावतिपावनौ ते गोविन्दराज चरणौ शरणं प्रपद्ये ॥९॥

मल्लावहे मधुरया मधुराङ्गनानां फुल्लारविन्ददलतल्लजलोचनानाम् ।

वाण्या प्रशंसितपरार्ध्यगतिप्रकारौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥१०॥

कंसं निपात्य कनकासनतः पृथिव्या- मुद्धृत्य सागसमनागसमुग्रसेनम् ।

राज्येऽभिषिच्य विनिवारितभूमिभारौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥११॥

दुर्योधने दुरभिमानिनि दुर्भगाणा- मग्रेसरे भजति ते शिरसः प्रदेशम् ।

धन्येन यन्निकटतः स्थितमर्जुनेन गोविन्दराज चरणौ शरणं प्रपद्ये ॥१२॥

सारथ्यवेषसमलंकृतपाण्डुसूनो- र्युद्धाङ्गणोज्ज्वलरथाञ्चलसंनिवेशौ ।

सान्द्रेन्द्रनीलपरिभावुकभव्यरूपौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥१३॥

भक्त्या प्रसन्नहृदयेन धनंजयेन यत्रार्चितानि कुसुमानि शिवोत्तमाङ्गे ।

साक्षात्कृतानि सहसाद्भुतवैभवौ तौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥१४॥

अस्मद्गुरुप्रभृतिभिः कमलावसानै- रादर्शितौ करुणया मम देशिकेन्द्रैः ।

सत्त्वोत्तरैः सकलजीवदयापरैस्तै- र्गोविन्दराज चरणौ शरणं प्रपद्ये ॥१५॥

अस्मात्पितामहमशेषगुणाभिराम- माचार्यरत्नमयि वादिभयंकरार्यम् ।

गोवर्धनाद्रिधृतिधारितगोप वीक्ष्य गोविन्दराज मम दुर्लपितं क्षमस्व ॥१६॥।

इति श्रीगोविन्दराजप्रपत्तिः संपूर्णा ।

Translation - भाषांतर

N/A
Details
References : N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2008-04-15T23:36:47.8714656-04:00
|-|-|
Comments | अभिप्राय