{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

श्री हनुमत् पञ्चरत्नम्




हनुमान वायुपुत्र आहे, त्यामुळे त्याच्यात प्रचंड शक्ति आहे.
Hanuman is son of a wind god Vayu. Hanuman is the Divine example of pure devotion and service.

Content
श्री हनुमत् पञ्चरत्नम्

वीताखिल- विषयेच्छं जातानन्दाश्र\ पुलकमत्यच्छम् । सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥१॥

तरुणारुण मुख- कमलं करुणा- रसपूर- पूरितापाङ्गम् । सन्जीवनमाशासे मञ्जुल- महिमानमञ्जना- भाग्यम् ॥२॥

शम्बरवैरि- शरातिगमम्बुजदल- विपुल- लोचनोदारम् । कम्बुगलमनिलदिष्टम् बिम्ब- ज्वलितोष्ठमेकमवलम्बे ॥३॥

दूरीकृत- सीतार्तिः प्रकटीकृत- रामवैभव- स्फूर्तिः । दारित- दशमुख- कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥४॥

वानर- निकराध्यक्षं दानवकुल- कुमुद- रविकर- सदृशम् । दीन- जनावन- दीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥५॥

एतत्- पवन- सुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् । चिरमिह- निखिलान् भोगान् भुङ्क्त्वा श्रीराम- भक्ति- भाग्- भवति ॥६॥

इति श्रीमच्छंकर- भगवतः कृतौ हनुमत्- पञ्चरत्नं संपूर्णम् ॥

Translation - भाषांतर

N/A
Details
References : N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2008-04-15T22:25:50.9603280-04:00
|-|-|
Comments | अभिप्राय