{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

श्रीरामाष्टकम्




श्री राम हा विष्णुचा सातवा अवतार आहे.
The Ramayana is the world's oldest literature.
Content
श्रीरामाष्टकम्

श्रीगणेशाय नमः ।

कृतार्तदेववंदनं दिनेशवंशनंदनम् । सुशोभिभालनंदनं नमामि राममीश्‍वरम् ॥ १ ॥

मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम् । महाधनुर्विदारकं नमाभि राममीश्‍वरम् ॥ २ ॥

स्वतातवाक्यकारिणं तपोवने विहारिणम् । करुषुचापधारिणं नमामि राममीश्‍वरम् ॥ ३ ॥

कुरङ्गमुक्तसायकं जटायुमोक्षदायकम् । प्रविद्धकीशनायकं नमामि राममीश्‍वरम् ॥ ४ ॥

प्लवंगसंघसंमतिं निबद्धनिम्नगापतिम् । दशास्यवंशसंक्षतिं नमामि राममीश्‍वरम् ॥ ५ ॥

विदीनदेवहर्षणं कपीप्सितार्थवर्षणम् । स्वबंधुशोककर्षणं नमामि राममीश्‍वरम् ॥ ६ ॥

गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम् । कृतास्तमोहलक्षणं नमामि राममीश्‍वरम् ॥ ७ ॥

ह्रताखिलाचलाभरं स्वधामनीतनागरम् । जगत्तमोदिवाकरं नमामि राममीश्‍वरम् ॥ ८ ॥

इदं समाहितात्मना नरो रघूत्तमाष्टकम् । पठन्निरन्तरं भयं भवोद्भवं न विंदते ॥ ९ ॥

इति श्रीपरमहंसस्वामिब्रह्मानंदविरचितं श्रीरामाष्टकं संपूर्णम् ।

Translation - भाषांतर

N/A
Details
N/A
Created by TransLiteral/ Courtsey {Khapre.org} on 2007-06-21T20:27:35.0000000Z
|-|-|
Comments | अभिप्राय