{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

रामचन्द्राष्टकम्




श्री राम हा विष्णुचा सातवा अवतार आहे.
The Ramayana is the world's oldest literature.
Content
रामचन्द्राष्टकम्

श्रीगणेशाय नमः ।

चिदाकारो धाता परमसुखदः पावनतनुर्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता ।

सदा सेद्रैव्यः पूर्णो जनकतनयांगैः सुरगुरू रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ १ ॥

मुकुंदो गोविंदो जनकतनयालालितपदः पदं प्राप्ता यस्याधमकुलभवा चापि शबरी ।

गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ २ ॥

धराधीशोऽधीशः सुरनरवराणा रघुपतिः किरीटी केयूरी कनककपिशः शोभितवपुः ।

समासीनः पीठे रविशतनिभः शांतमनसो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ३ ॥

वरेण्यः शारण्यः कपिपतिसखा चांतविधुरो ललाटे काश्मीरो रुचिरगतिभंगः शशिमुखः । न

राकारो रामो यतिपतिनुतः संसृतिहरो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ४ ॥

विरूपाक्षः काश्यामुपदिशति यन्नाम शिवदं सहस्त्रं यन्नाम्नां पठति गिरिजा प्रत्युषसि वै ।

कलौ के गायंतीश्‍वरविधिमुखा यस्य चरितं रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ५ ॥

परो धीरोऽधीरोऽसुरकुलभवश्चासुरहरः परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशाः ।

अहल्याशापघ्नः शरकर अजः कौशिकसखा रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ६ ॥

ह्रषीकेशः शौरिर्धरणिधरशायी मधुरिपुरुपेन्द्रो वैकुण्ठो गजरिपुहरस्तुष्टमनसः ।

बलिध्वंसो वीरो दशरथसुतो नीतिनिपुणो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ७ ॥

कविः सौमित्रीड्यः कपटमृगघाती वनचरो रणश्लाघी दांतो धरणिभरहर्ता सुरनुतः ।

अमानी मानज्ञो निखिलजनपूज्यो ह्रदिशयो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ८ ॥

इदं रामस्तोत्रं वरममरदासेन रचितमुषःकाले भक्त्या यदि पठति यो भावसहितः ।

मनुष्यः स क्षिप्रं जनिमृतिभयं तापजनकं परित्यज्य श्रेष्ठं रघुपतिपदं याति शिवदम् ॥ ९ ॥

इति श्रीमद्रामदासपूज्यशिष्यश्रीमद्धंसदासशिष्येणामरदासाख्यकविना

विरचितं श्रीमद्रामचंद्राष्टकं संपूर्णम् ।

Translation - भाषांतर

N/A
Details
References : N/A

Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-07T23:05:43.0000000Z
|-|-|
Comments | अभिप्राय