{khapre.org}
Nothing More : Nothing Less : Just Perfect : Online Since 1997
Header

श्री हनुमान सहस्त्रनामस्तोत्रम्




हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.

 

Content
श्री हनुमान सहस्त्रनामस्तोत्रम्

श्री हनुमंत सहस्त्रनामस्तोत्रम्

ध्यानम्

अतुलितबलधामं हेमशैलाभदेहं

दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।

सकलगुणनिधानं वानराणामधीशं

रघुपतिप्रियभक्तं वातजातं नमामि ॥*

स्तोत्रम्

श्रीरामचन्द्र उवाच

हनुमाञ्श्रीप्रदो वायुपुत्रो रुद्रोऽनघोऽजरः ।

अमृत्युर्वीरवीरश्च ग्रामवासो जनाश्रयः ॥१॥

धनदो निर्गुणोऽकायो वीरो निधिपतिर्मुनिः ।

पिङ्गक्षो वरदो वाग्मी सीताशोकविनाशनः ॥२॥

शिवः सर्वः परोऽव्यक्तो व्यक्ताव्यक्तो रसाधनः ।

पिङ्गकेशः पिङ्गरोमा श्रुतिगम्य सनातनः ॥३॥

अनादिर्भवान देवो विश्वहेतुर्निरामयः ।

आरोग्यकर्ता विश्वेशो विश्वनाथो हरीश्वरः ॥४॥

भर्गो रामो रामभक्तः कल्याणप्रकृतिः स्थिरः ।

विश्वम्भरो विश्वमूर्तिर्विश्वाकारोऽथ विश्वपः ॥५॥

विश्वात्मा विश्वसेव्योऽथ विश्वो विश्वहरो रविः ।

वि्श्वचेष्टो विश्वगम्यो विश्वध्येयः कलाधरः ॥६॥

प्लवङ्गमः कपिश्रेष्ठो ज्येष्ठो वैद्यो वनेचरः ।

बालो वृद्धो युवा तत्त्वं तत्त्वगम्यः सखा ह्राजः ॥७॥

अञ्जनासूनुरव्यग्रो ग्रामख्यातो धराधरः ।

भूर्भुवःस्वर्महर्लोको जनलोकस्तपोऽव्ययः ॥८॥

सत्यमोङ्कारगम्यश्च प्रववो व्यापकोऽमलः ।

शिवधर्मप्रतिष्ठाता रामेष्टः फाल्गुनप्रियः ॥९॥

गोष्पदीकृतवारीशः पूर्णकामो धरापतिः ।

रक्षोघ्नोः पुण्डरीकाक्षः शरणागतवत्सलः ॥१०॥

जानकीप्राणदाता च रक्षःप्राणापहारकः ।

पूर्णः सत्यः पीतवासा दिवाकरसमप्रभः ॥११॥

देवोद्यानविहारी च देवताभयभञ्जनः ।

भक्तोदयो भक्तलब्धो भक्तपालनतत्परः ॥१२॥

द्रोणहर्ता शक्तिनेता शक्तिराक्षसमारकः ।

अक्षघ्नो रामदूतश्च शाकिनीजीवहारकः ॥१३॥

बुबुकारहतारातिर्गर्वपर्वतमर्दनः ।

हेतुस्त्वहेतुः प्रांशुश्च विश्वभर्ता जगद्‍गुरुः ॥१४॥

जगन्नेता जगन्नाथो जगदीशो जनेश्वरः ।

जगद्धितो हरिः श्रोशो गरुडस्मयभञ्जनः ॥१५॥

पार्थध्वजो वायुपुत्रोऽमितपुच्छोऽमितविक्रमः ।

ब्रह्मपुच्छः परब्रह्मपुच्छो रामेष्टकारकः ॥१६॥

सुग्रीवादियुतो ज्ञानी वानरो वानरेश्वरः ।

कल्पस्थायी चिरञ्जीवी तपनश्च सदाशिवः ॥१७॥

सन्नातिः सद्गतिर्भुक्तिमुक्तिदः कीर्तिदायकः ।

कीर्तिः कीर्तिप्रदश्चैव समुद्रः श्रीपदः शिवः ॥१८॥

भक्तोदयो भक्तगम्यो भक्तभाग्यप्रदायकः ।

उदधिक्रमणो देवः संसारभयनाशनः ॥१९॥

वार्धिबन्धनकृद विश्वजेता विश्वप्रतिष्ठितः ।

लङ्कारिः कालपुरुषो लङ्केशगृहभञ्जकः ॥२०॥

भूतावासो वासुदेवो वसुस्त्रिभुवनेश्वरः ।

श्रीरामरूपः कृष्णस्तु लङ्काप्रासादभञ्जकः ॥२१॥

कृष्णः कृष्णस्तुतः शान्तः शान्तिदो विश्वपावनः ।

विश्वभोक्ताथ मारघ्नो ब्रह्मचारी जितेन्द्रियः ॥२२॥

ऊर्ध्वगो लाङ्गुली माली लाङ्गूलाहतराक्षसः ।

समीरतनुजो वीरो वीरतारी जयप्रदः ॥२३॥

जगन्मङ्गलदः पुण्यः पुण्यश्रवणकीर्तनः ।

पुण्यकीर्तिः पुण्यगतिर्जगत्पावनपावनः ॥२४॥

देवेशो जितमारोऽथ रामभक्तिविधायकः ।

ध्याता ध्येयो लयः साक्षी चेता चैतन्यविग्रहः ॥२५॥

ज्ञानदः प्राणदः प्राणो जगत्प्राण समीरणः ।

विभीषणप्रियः शूरः पिप्पलाश्रयसिद्धिदः ॥२६॥

सिद्धः सिद्धश्रयः कालो महोक्षः कालजान्तकः ।

लङ्केशनिधनस्थायी लड्कादाहक ईश्र्वरः ॥२७॥

चन्द्रसूर्यग्निनेत्रश्च कालाग्निः प्रलयान्तकः ।

कपिलः कपिशः पुण्यराशिर्द्वादशराशिगः ॥२८॥

सर्वाश्रयोऽप्रमेयात्मा रेवत्यादिनिवारकः ।

लक्ष्मणप्राणदाता च सीताजीवनहेतुकः ॥२९॥

रामध्येयो हृषीकेशी विष्णुभक्त जटी बली ।

देवारिदर्पहा होता धाता कर्ता जगत्प्रभुः ॥३०॥

नगरग्रामपालश्च शुद्धो बुद्धो निरत्रपः ।

निरञ्जनो निर्विकल्पो गुणातीतो भयंकरः ॥३१॥

हनुमांश्च दुराराध्यस्तपःसाध्यो महेश्वरः ।

जानकीधनशोकोत्थतापहर्ता परात्परः ॥३२॥

वाड्मयः सदसद्रूपः कारणं प्रकृतेः परः ।

भाग्यदो निर्मलो नेता पुच्छलङ्काविदाहकः ॥३३॥

पुच्छबद्धयातुधानो यातुधानरिपुप्रियः ।

छायापहारी भूतेशो लोकेशः सद्‍गतिप्रदः ॥३४॥

प्लवङ्गमेश्वरः क्रोधः क्रोधसंरक्तलोचनः ।

सौम्यो गुरुः काव्यकर्ता भक्तानां च वरप्रदः ॥३५॥

भक्तानुकम्पी विश्वेशः पुरुहूतः पुरंदरः ।

क्रोधहर्ता तमोहर्ता भक्ताभयवरप्रदः ॥३६॥

अग्निर्विभावसुर्भास्वान् यमो निऋतिरेव च ।

वरुणो वायुगतिमान् वायुः कौबेर ईश्वरः ॥३७॥

रविश्चन्द्रः कुजः सौम्यो गुरुः काव्यः शनैश्चरः ।

राहुः केतुर्मरुद्धोता दाता हर्ता समीरजः ॥३८॥

मशकीकृतदेवारिदैत्यारिर्मधुसूदनः ।

कामः कपिः कामपालः कपिलो विश्वजीवन ॥३९॥

भागीरथीपदाम्भोजः सेतुबन्धविशारदः ।

स्वाहा स्वधा हविः कव्यं हव्यवाहप्रकाशकः ॥४०॥

स्वप्रकाशो महावीरो लघुरूर्जितविक्रमः ।

उड्डीनोड्डीनगतिमान् सद्‍गतिः पुरुषोत्तमः ॥४१॥

जगदात्मा जगद्योनिर्जगदन्तो ह्यनन्तकः ।

विपाप्मा निष्कलङ्कोऽथ महान् महादहंकृतिः ॥४२॥

खं वायुः पृथिवी चापो वह्निर्दिक्पाल एव च ।

क्षेत्रज्ञः क्षेत्रहर्ता च पल्वलीकृतसागरः ॥४३॥

हिरण्मयः पुराणश्च खेचरो भूचरोऽमरः ।

हिरण्मयगर्भः सूत्रात्मा राजराजो विशांपतिः ॥४४॥

वेदान्तवेद्य उद्गीथो वेदवेदाङ्गपारगः ।

प्रतिग्रामस्थितिः सद्यःस्फूर्तिदाता गुणाकरः ॥४५॥

नक्षत्रमाली भूतात्मा सुरभिः कल्पपादपः ।

चिन्तामणिर्गुणनिधिः प्रजाधारो ह्यनुत्तमः ॥४६॥

पुण्यश्‍लोकः पुरारातिर्ज्योतिष्माञ्शर्वरीपतिः ।

किलकिलारावसंत्रस्तभूतप्रेतपिशाचकः ॥४७॥

ऋणत्रयहरः सूक्ष्मः स्थूलः सर्वगतिः पुमान् ।

अपस्मारहरः स्मर्ता श्रुतिर्गाथा स्मृतिर्मनुः ॥४८॥

स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं यतीश्वरः ।

नादरूपः परं ब्रह्म ब्रह्म ब्रह्मपुरातनः ॥४९॥

एकोऽनेको जनः शुक्लः स्वयंज्योतिरनाकुलः ।

ज्योतिर्ज्योतिरनादिश्च सात्त्विको राजसस्तमः ॥५०॥

तमोहर्ता निरलम्बो निराकारी गुणाकरः ।

गुणाश्रयो गुणमयो बृहत्कर्मा बृहद्यशाः ॥५१॥

बृहद्धनुर्बृहत्पादो बृहन्मूर्धा बृहत्स्वनः ।

बृहत्कर्णो बृहन्नासो बृहद्बाहुर्बृहत्तनुः ॥५२॥

बृहज्जानुर्बृहत्कार्यो बृहत्पुच्छो बृहत्करः ।

बृहद्रतिर्बृहत्सेव्यो बृहल्लोकफलप्रदः ॥५३॥

बृहच्छक्तिर्बृहद्वाञ्छाफलदो बृहदीश्वरः ।

बृहल्लोकनुतो द्रष्टा विद्यादाता जगद्‍गुरुः ॥५४॥

देवाचार्यः सत्यवादी ब्रह्मवादी कलाधरः ।

सप्तपातालगामी च मलयाचलसंश्रयः ॥५५॥

उत्तराशास्थितः श्रीदो दिव्यौषधिवशः खगः ।

शाखामृगः कपीन्द्रोऽथ पुराणश्रुतिचञ्चुरः ॥५६॥

चतुरब्राह्मणो योगी योगगम्यः परावरः ।

अनादिनिधनो व्यासो वैकुण्ठः पृथिवीपतिः ॥५७॥

अपराजितो जितारातिः सदानन्दो दयायुतः ।

गोपालो गोपतिर्गोप्ता कलिकालपराशनः ॥५८॥

मनोवेगी सदायोगी संसारभयनाशनः ।

तत्त्वदाताथ तत्त्वज्ञस्तत्त्वं तत्त्वप्रकाशकः ॥५९॥

शुद्धो बुद्धो नित्यमुक्तो भक्तराजो जयद्रथः ।

प्रलयोऽमितमायश्च मायातीतो विमत्सरः ॥६०॥

मायाभर्जितरक्षश्च मायानिर्मितविष्टपः ।

मायाश्रयश्च निर्लेपो मायानिर्वर्तकः सुखम् ॥६१॥

सुखी सुखप्रदो नागो महेशकृतसंस्तवः ।

महेश्वरः सत्यसंधः शरभः कलिपावनः ॥६२॥

सहस्त्रकन्धरबलविध्वंसनविचक्षणः ।

सहस्त्रबाहुः सहजो द्विबाहुर्द्विभुजोऽमरः ॥६३॥

चतुर्भुजो दशभुजो हयग्रीवः खगाननः ।

कपिवक्त्रः कपिपतिर्नरसिंहो महाद्युतिः ॥६४॥

भीषणो भावगो वन्घो वराहो वायुरूपधृक् ।

लक्ष्मणप्राणदाता च पराजितदशाननः ॥६५॥

पारिजातनिवासी च वटर्वचनकोविदः ।

सुरसास्यविनिर्मुक्तः सिंहिकाप्राणहारकः ॥६६॥

लङ्कालङ्कारविध्वंसी वृषदंशकरूपधृक् ।

रात्रिसंचारकुशलो रात्रिंचरगृहग्निदः ॥६७॥

किङ्करान्तकरो जम्बुमालिहन्तोगुरूपधृक् ।

आकाशचारी हरिगो मेघनादरणोत्सुकः ॥६८॥

मेघगम्भीरनिनदो महारावनकुलात्‍नकः ।

कालनेमिप्रानहारी मकरीशापमोक्षदः ॥६९॥

रसो रसज्ञः सम्मानो रूपं चक्षुः श्रुतिर्वचः ।

घ्राणो गन्धः स्पर्शनं च स्पर्शोऽहङ्कारमानगः ॥७०॥

नेतिनेतीतिगम्यश्च वैकुण्ठभजनप्रियः ।

गिरीशो गिरिजाकान्तो दुर्वासाः कविरङ्गिराः ॥७१॥

भृगुर्वसिष्ठश्‍च्यवनो नारदस्तुम्बरोऽमलः ।

विश्वक्षेत्रो विश्वबीजो विश्वनेत्रश्च विश्वपः ॥७२॥

याजको यजमानश्च पावकः पितरस्तथा ।

श्रद्धा बुद्धिः क्षमा तन्द्रा मन्त्रो मन्त्रयिता स्वरः ॥७३॥

राजेन्द्रो भूपती रुण्डमाली संसारसारथिः ।

नित्यसम्पूर्णकामश्च भक्तकामधुगुत्तमः ॥७४॥

गणपः केशवो भ्राता पिता माता च मारुतिः ।

सहस्त्रमूर्द्धानेकास्यः सहस्त्राक्षः सहस्त्रपात् ॥७५॥

कामजित् कामदहनः कामः कामफलप्रदः ।

मुद्रापहारी रक्षाघ्नः क्षितिभारहरो बलः ॥७६॥

नखदंष्ट्रायुधो विष्णुर्भक्ताभयवरप्रदः ।

दर्पहा दर्पदो दंष्ट्राशतमूर्तिरमूर्तिमान् ॥७७॥

महानिधिर्महाभागो महाभर्गो महर्द्धिदः ।

महाकारो महायोगी महातेजा महाद्युतिः ॥७८॥

महासनो महानादो महामन्त्रो महामतिः ।

महागमो महोदारो महादेवात्मको विभुः ॥७९॥

रौद्रकर्मा क्रूरकर्मा रत्ननाभः कृतागमः ।

अम्भोधिलङ्घनः सिंहः सत्यधर्मप्रमोदनः ॥८०॥

जितामित्रो जयः सोमो विजयो वायुनन्दनः ।

जीवदाता सहस्त्रांशुर्मुकुन्दो भूरिदक्षिणः ॥८१॥

सिद्धार्थः सिद्धिदः सिद्धसङ्कल्पः सिद्धिहेतुकः ।

सप्तपातालचरणः सप्तर्षिगणावन्दितः ॥८२॥

सप्ताब्धिलङ्घनो वीरः सप्तद्वीपोरुमण्डलः ।

सप्ताङ्गराज्यसुखदः सप्तमातृनिषेवितः ॥८३॥

सप्तस्वर्लोकमुकुटः सप्तहोता स्वराश्रयः ।

सप्तच्छन्दोनिधिः सप्तच्छन्दः सप्तजनाश्रयः ॥८४॥

सप्तसामोपगीतश्च सप्तपातालसंश्रयः ।

मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ॥८५॥

सर्वरक्षाकारो गर्भदोषहा पुत्रपौत्रदः ।

प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥८६॥

पराभिचारशमनो दुःखहा बन्धमोक्षदः ।

नवद्वारपुराधारो नवद्वारनिकेतनः ॥८७॥

नरनारायणस्तुत्यो नवनाथमहेश्वरः ।

मेखली कवची खड्‍गी भ्राजिष्णुर्जिष्णुसारथिः ॥८८॥

बहुयोजनविस्तीर्णपुच्छः पुच्छहतासुरः ।

दुष्टग्रहनिहन्ता च पिशाचग्रहघातकः ॥८९॥

बालग्रहविनाशी च धर्मनेता कृपाकरः ।

उग्रकृत्यश्चोग्रवेग उग्रनेत्रः शतक्रतुः ॥९०॥

शतमन्युनुतः स्तुत्यः स्तुतिः स्तोता महाबलः ।

समग्रगुणशाली च व्यग्रो रक्षोविनाशकः ॥९१॥

रक्षोऽग्निदाहो ब्रह्मेशः श्रीधरो भक्तवत्सलः ।

मेघनादो मेघरूपो मेघवृष्टिनिवारकः ॥९२॥

मेघजीवनहेतुश्चु मेघश्यामः परात्मकः ।

समीरतनयो योद्धा नृत्यविद्याविशारदः ॥९३॥

अमोघोऽमोघदृष्टीश्च इष्टदोऽरिष्टनाशनः ।

अर्थोऽनर्थापहारी च समर्थो रामसेवकः ॥९४॥

अर्थिवन्द्योऽसुरारातिः पुण्डरीकाक्ष आत्मभूः ।

संकर्षणो विशुद्धात्मा विद्याराशिः सुरेश्वरः ॥९५॥

अचलोद्धारको नित्यः सेतुकृद् रामसारथिः ।

आनन्दः परमानन्दो मत्स्यः कूर्मो निराश्रयः ॥९६॥

वाराहो नारसिंहश्च वामनो जमदग्निजः ।

रामः कृष्णः शिवो बुद्धः कल्की रामाश्रयो हरिः ॥९७॥

नन्दी भृङ्गी च चण्डी च गणेशो गणसेवितः ।

कर्माध्यक्षः सुराध्यक्षो विश्रामो जगतीपतिः ॥९८॥

जगन्नाथः कपीशश्च सर्वावासः सदाश्रयः ।

सुग्रीवादिस्तुतो दान्तः सर्वकार्मा प्लवङ्गमः ॥९९॥

नखदारितरक्षाश्च नखयुद्धविशारदः ।

कुशलः सुधनः शेषो वासुकिस्तक्षकस्तथा ॥१००॥

स्वर्णवर्णो बलाढ्यश्च पुरुजेताघनाशनः ।

कैवल्यरूपः कैवल्यो गरुडः पन्नगोरगः ॥१०१॥

किलकिलरावहतारातिर्गर्वपर्वतभेदनः ।

वज्राङ्गो वज्रदंष्ट्रश्च भक्तवज्रनिवारकः ॥१०२॥

नखायुधो मणिग्रीवो ज्वालामाली च भास्करः ।

प्रौढप्रतापस्तपनो भक्ततापनिवारकः ॥१०३॥

शरणं जीवनं भोक्ता नानाचेष्टो ह्यचञ्चलः ।

स्वस्तिमान् स्वस्तिदो दुःखशातनः पवनात्मजः ॥१०४॥

पावनः पवनः कान्तो भक्तागःसहनो बली ।

मेघनादरिपुर्मेघनादसंहतराक्षसः ॥१०५॥

क्षरोऽक्षरी विनीतात्मा वानरेशः सतां गतिः ।

श्रीकण्ठः शितिकण्ठश्च सहायः सहनायकः ॥१०६॥

अस्थूलस्त्वनणुर्भर्गो दिव्यः संसृतिनाशनः ।

अध्यात्माविद्यासारश्च ह्याध्यात्मदुशलः सुधीः ॥१०७॥

अकल्मषः सत्यहेतुः सत्यदः सत्यगोचरः ।

सत्यगर्भः सत्यरूपः सत्यः सत्यपराक्रमः ॥१०८॥

अञ्जनाप्राणलिङ्गश्च वायुवंशोद्भवः शुभः ।

भद्ररूपो रुद्ररूपः सुरूपश्चित्ररूपधृक् ॥१०९॥

मैनाकवन्दितः सूक्ष्मदर्शनो विजयो जयः ।

कान्तदिङ्‍मण्डलो रुद्रः प्रकटीकृतविक्रमः ॥११०॥

कम्बुकण्ठः प्रसन्नात्मा ह्रस्वनासो वृकोदरः ।

लम्बौष्ठः कुण्डली चित्रमाली योगविंदा वरः ॥१११॥

विपश्चित्कविरानन्दविग्रहोऽनल्पशासनः ।

फाल्गुनीसूनुरव्यग्रो योगात्मा योगतत्परः ॥११२॥

योगविद् योगकर्ता च योगयोनिर्दिगम्बरः ।

अकारादिहकारान्तवर्णनिर्मितविग्रहः ॥११३॥

उलूखलमुखः सिद्धसंस्तुतः प्रमथेश्वरः ।

श्‍लिष्टजङ्घः श्‍लिष्टजानुः श्‍लिष्टपाणिः शिखाधरः ॥११४॥

सुशर्मामितशर्मा च नारायणपरायणः ।

जिष्णुर्भविष्णू रोचिष्णुर्ग्रसिष्णुः स्थाणुरेव च ॥११५॥

हरिरुद्रानुसेकोऽथ कम्पनो भूमिकम्पनः ।

गुणप्रवाहः सूत्रात्मा वीतरागस्तुतिप्रियः ॥११६॥

नागकन्याभध्वंसी रुक्मवर्णः कपालभृत् ।

अनाकुलो भवोपायोऽनपायो वेदपारगः ॥११७॥

अक्षरः पुरुषो लोकनाथ ऋक्षप्रभुर्दृढः ।

अष्टाङ्गयोगफलभुक् सत्यसंधः पुरुष्टुतः ॥११८॥

श्मशानस्थाननिलयः प्रेतविद्रावनक्षमः ।

पञ्चाक्षरपरः पञ्चमातृको रञ्जनध्वजः ॥११९॥

योगिनीवृन्दवन्द्यश्रीः शत्रुघ्नोऽनन्तविक्रमः ।

ब्रह्मचारीन्द्रियरिपुर्धृतदण्डो दशात्मकः ॥१२०॥

अप्रपञ्चः सदाचारः शूरसेनाविदारकः ।

वृद्धः प्रमोद आनन्दः सप्तद्वीपपतिन्धरः ॥१२१॥

नवद्वारपुराधारः प्रत्यग्रः सामगायकः ।

षट्‍चक्रधाम स्वर्लोकाभयकृन्मानदो मदः ॥१२२॥

सर्ववश्‍यकरः शक्तिरनन्तोऽनन्तमङ्गलः ।

अष्टमूर्तिर्नयोपेतो विरूपः सुरसुन्दरः ॥१२३॥

धूमकेतुर्महाकेतुः सत्यकेतुर्महारथः ।

नन्दिप्रियः स्वतन्त्रश्च मेखली डमरुप्रियः ॥१२४॥

लौहाङ्गः सर्वविद्धन्वी खण्डलः शर्व ईश्वरः ।

फलभुक् फलहस्तश्च सर्वकर्मफलप्रदः ॥१२५॥

धर्माध्यक्षो धर्मपालो धर्मो धर्मप्रदोऽर्थदः ।

पञ्चविंशतितत्त्वज्ञस्तारको ब्रह्मतत्परः ॥१२६॥

त्रिमार्गवसतिर्भीमः सर्वदुःखनिबर्हणः ।

ऊर्जस्वान् निष्कलः शूली मौलिर्गर्जन्निशाचारः ॥१२७॥

रक्ताम्बरधरो रक्तो रक्तमाल्यो विभूषणः ।

वनमाली शुभाङ्गश्च श्वेतः श्वेताम्बरो युवा ॥१२८॥

जयोऽजयपरीवारः सहस्त्रवदनः कपिः ।

शाकिनीडाकिनीयक्षरक्षोभूतप्रभञ्जकः ॥१२९॥

सद्योजातः कामगतिर्ज्ञानमूर्तिर्यशस्करः ।

शम्भुतेजाः सार्वभौमो विष्णुभक्तः प्लवङ्गमः ॥१३०॥

चतुर्नवतिमन्त्रज्ञः पौलस्त्यबलदर्पहा ।

सर्वलक्ष्मीप्रदः श्रीमानङ्गदप्रिय ईडितः ॥१३१॥

स्मृतिबीजं सुरेशानः संसारभयनाशनः ।

उत्तमः श्रीपरीवारः श्रितो रुद्रश्च कामधुक् ॥१३२॥

॥ इति मन्त्रमहार्णवे पूर्वखण्डे नवमतरङ्गे श्रीरामकृतं

श्रीहनुमत्सहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

 

Translation - भाषांतर

N/A
Details
References : N/A

Created by TransLiteral/ Courtsey {Khapre.org} on 2007-08-04T14:52:46.0000000Z
|-|-|
Comments | अभिप्राय