संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ८९ वा

वामनपुराण - अध्याय ८९ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


पुलस्त्य उवाच॥
गतेऽथ तीर्थयात्रायां प्रह्लादे दानवेश्वरे।
कुरुक्षेत्रं समभ्यागाद् यष्टुं वैरोचनो बलिः ॥१॥

तस्मिन् महाधर्मयुते तीर्थे ब्राह्मणपुंगवः।
शुक्रो द्विजातिप्रवरानामन्त्रयत भार्गवान् ॥२॥

भृगूनामन्त्र्यमाणान् वै श्रुत्वात्रेयाः सगौतमाः।
कौशिकाङ्गिरसश्चैव तत्यजुः कुरुजाङ्गलान् ॥३॥

उत्तराशां प्रजग्मुस्ते नदीमनु शतद्रुकाम्।
शातद्रवे जले स्नात्वा विपाशां प्रययुस्ततः ॥४॥

विज्ञाय तत्राप्यरतिं स्नात्वाऽर्च्य पितृदेवताः।
प्रजग्मुः किरणां पुण्यां दिनेशकिरणच्युताम् ॥५॥

तस्यां स्नात्वाऽर्च्य देवेर्षे सर्व एव महर्षयः।
ऐरावतीं सुपुण्योदां स्नात्वा जग्मुरथेश्वरीम् ॥६॥

देविकाया जले स्नात्वा पयोष्ण्यां चैव तापसाः।
अवतीर्णा मुने स्नातुमात्रेयाद्याः शुभां नदीम् ॥७॥

ततो निमग्ना ददृशुः प्रतिबिम्बमथात्मनः।
अन्तर्जले द्विजश्रेष्ठ महदाश्चर्यकारकम् ॥८॥

उन्मज्जने च ददृशुः पुनर्विस्मितमानसाः।
ततः स्नात्वा समुत्तीर्णा ऋषयः सर्व एव हि ॥९॥

जग्मुस्ततोऽपि ते ब्रह्मन् कथयन्तः परस्परम्।
चिन्तयन्तश्च सततं किमेतदिति विस्मिताः ॥१०॥

ततो दूरादपश्यन्त वनषण्डं सुविस्तृतम्।
वनं हरगलश्यामं खगध्वनिनिनादितम् ॥११॥

अतितुङ्गतया व्योम आवृण्वानं नगोत्तमम्।
विस्तृताभिर्जटाभिस्तु अन्तर्भूमिञ्च नारद ॥१२॥

काननं पुष्पितैर्वृक्षैरतिभाति समंततः।
दशार्द्धवर्णैः सुखदैर्नभस्तारागणैरिव ॥१३॥

तं दृष्ट्वा कमलैर्व्याप्तं पुण्डरीकैश्च शोभितम्।
तद्वत् कोकनदैर्व्याप्तं वनं पद्मवनं यथा ॥१४॥

प्रजग्मुस्तुष्टिमतुलां ते ह्लादं परमं ययुः।
विविशुः प्रीतमनसो हंसा इव महासरः ॥१५॥

तन्मध्ये ददृशुः पुण्यमाश्रमं लोकपूजितम्।
चतुर्णां लोकपालानां वर्गाणां मुनिसत्तम  ॥१६॥

धर्माश्रमं प्राङ्‌मुखं तु पलाशविटपावृतम्।
प्रतीच्यभिमुखं ब्रह्मन् अर्थस्येक्षुवनावृतम् ॥१७॥

दक्षिणाभिमुखं काम्यं रम्भाशोकवनावृतम्।
उदङ्मुखं च मोक्षस्य शुद्धस्फटिकवर्चसम् ॥१८॥

कृतान्ते त्वाश्रमी मोक्षः कामस्त्रेतान्तरे श्रमी।
आश्रम्यर्थो द्वापरान्ते तिष्यादौ धर्म आश्रमी ॥१९॥

तान्याश्रमाणि मुनयो दृष्ट्वात्रेयादयोऽव्ययाः।
तत्रैव च रतिं चक्रुरखण्डे सलिलाप्लुते ॥२०॥

धर्माद्यैर्भगवान् विष्णुरखण्ड विश्रुतः।
चतुर्मूर्तिर्जगन्नाथः पूर्वमेव प्रतिष्ठितः ॥२१॥

तमर्चयन्ति ऋषयो योगात्मानो बहुश्रुताः।
शुश्रूषयाऽथ तपसा ब्रह्मचर्येण नारद ॥२२॥

एवं ते न्यवसंस्तत्र समेता मुनयो वने।
असुरेभ्यस्तदा भीताः स्वाश्रित्याखण्डपर्वतम् ॥२३॥

तथाऽन्ये ब्राह्मणा ब्रह्मन् अश्मकुट्टा मरीचिपाः।
स्नात्वा जले हि कालिन्द्याः प्रजग्मुर्दक्षिणामुखाः ॥२४॥

अवन्तिविषयं प्राप्य विष्णुमासाद्य संस्थिताः।
विष्णोरपि प्रसादेन दुष्प्रवेशं महासुरैः ॥२५॥

वालखिल्यादयो जग्मुरवशा दानवाद् भयात्।
रुद्रकोटिं समाश्रित्य स्थितास्ते ब्रह्मचारिणः ॥२६॥

एवं गतेषु विप्रेषु गौतमाङ्गिरसादिषु।
शुक्रस्तु भार्गवान् सर्वान् निन्ये यज्ञविधौ मुने ॥२७॥

अधिष्ठिते भार्गवैस्तु महायज्ञेऽमितद्युते।
यज्ञदीक्षां बलेः शुक्रश्चकार विधिना स्वयम् ॥२८॥

श्वेताम्बरधरो दैत्यः श्वेतमाल्यानुलेपनः।
मृगाजिनावृतः पृष्ठे बर्हिपत्रविचित्रितः ॥२९॥

समास्ते वितते यज्ञे सदस्यैरभिसंवृतः।
हयग्रीवप्रलम्बाद्यैर्मयबाणपुरोगमैः ॥३०॥

पत्नी विन्ध्यावली चास्य दीक्षिता यज्ञकर्मणि।
ललनानां सहस्रस्य प्रधाना ऋषिकन्यका ॥३१॥

शुक्रेणाश्वः श्वेतवर्णो मधुमासे सुलक्क्षणः।
महीं विहर्तुमुत्सृष्टस्तारकाक्षोऽन्वगाच्च तम् ॥३२॥

एवमश्वे समुत्सृष्टे वितते यज्ञकर्मणि।
गते च मासत्रितये हूयमाने च पावके ॥३३॥

पूज्यमानेषु दैत्येषु मिथुनस्थे दिवाकरे।
सुषुवे देवजननी माधवं वामनाकृतिम् ॥३४॥

तं जातमात्रं भगवन्तमीशं नारायणं लोकपतिं पुराणम्।
ब्रह्मा समभ्येत्य समं महर्षिभिः स्तोत्रं जगादाथ विभोर्महर्षे ॥३५॥

नमोऽस्तु ते माधव सत्त्वमूर्त्ते नमोऽस्तु ते शाश्वत विश्वरूप।
नमोऽस्तु ते शत्रुवनेन्धनाग्ने नमोऽस्तु वै पापमहादवाग्ने ॥३६॥

नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन।
नमस्ते जगदाधार नमस्ते पुरुषोत्तम ॥३७॥

नारायण जगन्मूर्ते जगन्नाथ गदाधर।
पीतवासः श्रियःकान्त जनार्दन नमोऽस्तु ते ॥३८॥

भवांस्त्राता च गोप्ता च विश्वात्मा सर्वगोऽव्ययः।
सर्वधारी धराधारी रूपधारी नमोऽस्तु ते ॥३९॥

वर्धस्व वर्धिताशेषत्रैलोक्य सुरपूजित।
कुरुष्व दैवतपते मघोनोऽश्रुप्रमार्जनम् ॥४०॥

त्वं धाता च विधाता च संहर्ता त्वं महेश्वरः।
महालय महायोगिन् योगशायिन् नमोऽस्तु ते  ॥४१॥

इत्थं स्तुतो जगन्नाथं सर्वात्मा सर्वगो हरिः।
प्रोवाच भगवान् मह्यं कुरूपनयनं विभो ॥४२॥

ततश्चकार देवस्य जातकर्मादिकाः क्रियाः।
भरद्वाजो महातेजा बार्हस्पत्यस्तपोधनः ॥४३॥

व्रतबन्धं तथेशस्त कृतवान् सर्वशास्त्रवित्।
ततो ददुः प्रीतियुताः सर्व एव वरान् क्रमात् ॥४४॥

यज्ञोपवीतं पुलहस्त्वहं च सितवाससी।
मृगाजिनं कुम्भयोनिर्भरद्वाजस्तु मेखलाम् ॥४५

पालाशमददद् दण्डं मरीचिर्ब्रह्मणाः सुतः।
अक्षसूत्रं वारुणिस्तु कौश्यं वेदमथाङ्गिराः ॥४६॥

छत्रं प्रादाद् रघू राजा उपानद्युगलं नृगः।
कमण्डलुं बृहत्तेजाः प्रादाद्विष्णोर्बृहस्पतिः ॥४७॥

एवं कृतोपनयनो भगवान् भूतभावनः।
संस्तूयमानो ऋषिभिः साङ्गं वेदमधीयत ॥४८॥

भरद्वाजादाङ्गिरसात् सामवेदं महाध्वनिम्।
महदाख्यानसंयुक्तं गन्धर्वसहितं मुने ॥४९॥

मासेनैकेन भगवान् ज्ञानश्रुतिमहार्णवः।
लोकचारप्रवृत्त्यर्थमभूच्छ्रुतिविशारदः ॥५०॥

सर्वशास्त्रेषु नैपुण्यं गत्वा देवोऽक्षयोऽव्ययः।
प्रोवाच ब्राह्मणश्रेष्ठं भरद्वाजमिदं वचः ॥५१॥

श्रीवामन उवाच॥
ब्रह्मन् व्रजामि देह्याज्ञां कुरुक्षेत्रं महोदयम्।
तत्र दैत्यपतेः पुण्यो हयमेधः प्रवर्तते ॥५२॥

समाविष्टानि पश्यस्व तेजांसि पृथिवीतले।
ये संनिधानाः सततं मदंशाः पुण्यवर्धनाः।
तेनाहं प्रतिजानामि कुरुक्षेत्रं गतो बलिः ॥५३॥

भरद्वाज उवाच॥
स्वेच्छया तिष्ठ वा गच्छ नाहमाज्ञापयामि ते।
गमिष्यामो वयं विष्णो बलेरध्वरं मा खिद ॥५४॥

यद् भवन्तमहं देव परिपृच्छामि तद् वद।
केषु केषु विभो नित्यं स्थानेषु पुरुषोत्तम।
सान्निध्यं भवतो ब्रूहि ज्ञातुमिच्छामि तत्त्वतः ॥५५॥

वामन उवाच॥
श्रूयतां कथयिष्यामि येषु येषु गुरो अहम्।
निवसामि सुपुण्येषु स्थानेषु बहुरूपवान् ॥५६॥

ममावतारैर्वसुधा नभस्तलं पातालमम्भोनिधयो दिवञ्च।
दिशः समस्ता गिरयोऽम्बुदाश्च व्याप्ता भरद्वाज ममानुरूपैः ॥५७॥

ये दिव्या ये च भौमा जलगगनचराः स्थावरा जङ्गमाश्च सेन्द्राः सार्काः सचन्द्रा यमवसुवरुणा ह्यग्नयः सर्वपालाः।
ब्रह्माद्याः स्थावरान्ता द्विजखगमहिता मूर्तिमन्तो ह्यमूर्ताः ते सर्वे मत्प्रसूता बहु विविधगुणाः पूरणार्थं पृथिव्याः ॥५८॥

एते हि मुख्याः सुरसिद्धदानवैः पुज्यास्तथा संनिहिता महीतले।
यैर्दृष्टमात्रैः सहसैव नाशं प्रयाति पापं द्विजवर्य कीर्तनैः ॥५९॥

इति श्रीवामनपुराणे पुलस्त्यनारदसंवादे प्रह्लादतीर्थयात्रायां वामनप्रादुर्भावे वामनजन्म नाम नवाशीतितमोऽध्यायः ॥८९॥

N/A


References : N/A
Last Updated : September 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.