संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ९१ वा

वामनपुराण - अध्याय ९१ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


पुलस्त्य उवाच॥
ततः समागच्छति वासुदेवे मही चकम्पे गिरयश्च चेलुः।
क्षुब्धाः समुद्रा दिवि ऋक्षमण्डलो बभौ विपर्यस्तगतिर्महर्षे ॥१॥

यज्ञः समागात् परमाकुलत्वं न वेद्मि किं मे मधुहा करिष्यति।
यथा प्रदग्धोऽस्मि महेश्वरेण किं मां न संधक्ष्यति वासुदेवः ॥२॥

क्साममन्त्राहुतिभिर्हुताभिर्वितानकीयान् ज्वलनास्तु भागान्।
भक्त्या द्विजेन्द्रैरपि संप्रपादितान् नैव प्रतीच्चन्ति विभोर्भयेन ॥३॥

तान् दृष्ट्वा घोररुपांस्तु उत्पातान् दानवेश्वरः।
पप्रच्छोशनसं शुक्रं प्रणिपत्य कृताञ्जलिः ॥४॥

किमर्थमाचार्य मही सशैला रम्भेव वाताभिहता चचाल।
किमासुरीयान् सुहुतानपीह भागान् न गृह्‌णन्ति हुताशनाश्च ॥५॥

क्षुब्धाः किमर्थं मकरालयाश्च भो ऋक्षा न खे किं प्रचरन्ति पूर्ववत्।
दिशः किमर्थं तमसा परिप्लुता दोषेण कस्याद्य वदस्व मे गुरो ॥६॥

पुलस्त्य उवाच॥
शुक्रस्तद् वाक्यमाकर्ण्य विरोचनसुतेरितम्।
अथ ज्ञात्वा कारणं च बलिं वचनमब्रवीत् ॥७॥

शुक्र उवाच॥
श्रृणुष्व दैत्येश्वर येन भागान् नामी प्रतीच्छन्ति हि आसुरीयान्।
हुताशना मन्त्रहुतानपीह नूनं समागच्छति वासुदेवः ॥८॥॥

तदङ्‌घ्रिविक्षेपमपारयन्ती मही सशैला चलिता दितीश।
तस्यां चलत्यां मकरालयामी उद्‌वृत्तवेला दितिजाद्य जाताः ॥९॥

पुलस्त्य उवाच॥
शुक्रस्य वचनं श्रुत्वा बलिर्भार्गवमब्रवीत्।
धर्मं सत्यं च पथ्यं च सर्वोत्साहसमीरितम् ॥१०॥

बलिरुवाच॥
आयाते वासुदेवे वद मम भगवन् धर्मकामार्थतत्त्वं किं कार्यं किं च देयं मणिकन्कमथो भूगजाश्वादिकं वा।
किं वा वाच्यं मुरारेर्निजहितमथवा तद्धितं वा प्रयुञ्जे तथ्यं पथ्यं प्रियं भो मम वद शुभदं तत्करिष्ये न चान्यत् ॥११॥

पुलस्त्य उवाच॥
तद् वाक्यं भार्गवं श्रुत्वा दैत्यनाथेरितं वरम्।
विचिन्त्य नारद प्राह भूतभव्यविदीश्वरः ॥१२॥

त्वया कृता यज्ञभुजोऽसुरेन्द्रा बहिष्कृता ये श्रुतिदृष्टमार्गे।
श्रुतिप्रमाणं मखभोजिनो बहिः सुरास्तदर्थं हरिरभ्युषैति ॥१३॥

तस्याध्वरं दैत्यसमागतस्य कार्यं हि किं मां परिपृच्छसे यत्।
कार्यं न देयं हि विभो तृणाग्रं यदध्वरे भूकनकादिकं वा ॥१४॥

वाच्यं तथा साम निरर्थकं विभो कस्ते वरं दातुमलं हि शक्नुयात्।
यस्योदरे भूर्भुवनाकपालरसातलेशा निवसन्ति नित्यशः ॥१५॥

बलिरुवाच॥
मया न चोक्तं वचनं हि भार्गव न चास्ति मह्यं न च दातुमुत्सहे।
समागतेऽप्यर्थिनि हीनवृत्ते जनार्दने लोकपतौ कथं तु  ॥१६॥

एवं च श्रूयते श्लोकः सतां कथयतां विभो।
सद्भावो ब्राह्मणेष्वेव कर्त्तव्यो भूतिमिच्छता ।
दृश्यते हि तथा तच्च सत्यं ब्राह्मणसत्तम ॥१७॥

पूर्वाभ्यासेन कर्माणि संभवन्ति नृणां स्फुटम्।
वाक्कायमानसानीह योन्यन्तरगतान्यपि ॥१८॥

किं वा त्वया द्विजश्रेष्ठ पौराणी न श्रुता कथा।
या वृत्ता मलये पूर्वं कोशकारसुतस्य तु ॥१९॥

शुक्र उवाच॥
कथयस्व महाबाहो कोशकारसुताश्रयाम्।
कथां पौराणिकीं पुण्यां महाकौतूहलं हि मे ॥२०॥

बलिरुवाच॥
श्रृणुष्व कथयिष्यामि कथामेतां मखान्तरे।
पूर्वाभ्यासनिबद्धां हि सत्यां भृगुकुलोद्वह ॥२१॥

मुद्गलस्य मुनेः पुत्रो ज्ञानविज्ञानपारगः।
कोशकार इति ख्यात आसीद् ब्रह्मंस्तपोरतः ॥२२॥

तस्यासीद् दयिता साध्वी धर्मिष्ठा नामतः सुता।
सती वात्स्यायनसुता धर्मशीला पतिव्रता ॥२३॥

तस्यामस्य सुतो जातः प्रकृत्या वै जडाकृतिः।
मूकवन्नालपति स न च पश्यति चान्धवत् ॥२४॥

तं जातं ब्राह्मणी पुत्रं जडं मूकं त्वचक्षुषम्।
मन्यमाना गृहद्वारि षष्ठेऽहनि समुत्सृजत् ॥२५॥

ततोऽभ्यागाद् दुराचारा राक्षसी जातहारिणी।
स्वं शिशुं कृशमादाय सूर्पाक्षी नाम नामतः ॥२६॥

तत्रोत्सृज्य स्वपुत्रं सा जग्राह द्विजनन्दनम्।
तमादाय जगामाथ भोक्तुं शालोदरे गिरौ ॥२७॥

ततस्तामागतां वीक्ष्य तस्या भर्ता घटोदरः।
नेत्रहीनः प्रत्युवाच किमानीतस्त्वया प्रिये ॥२८॥

साऽब्रवीत् राक्षसपते मया स्थाप्य निजं शिशुम्।
कोशकारद्विजगृहे तस्यानीतः प्रभो सुतः ॥२९॥

स प्राह न त्वया भद्रे भद्रमाचरितं त्विति।
महाज्ञानी द्विजेन्द्रोऽसौ ततः शप्स्यति कोपितः ॥३०॥

तस्माच्छीघ्रमिमं त्यक्त्वा मनुजं घोररुपिणम्।
अन्यस्य कस्यचित् पुत्रं शीघ्रमानय सुन्दरि ॥३१॥

इत्येवमुक्ता सा रौद्रा राक्षसी कामचारिणी।
समाजगाम त्वरिता समुत्पत्य विहायसम् ॥३२॥

स चापि राक्षससुतो निसृष्टो गृहबाह्यतः।
रुरोद सुस्वरं ब्रह्मन् प्रक्षिप्याङ्गुष्ठमानने ॥३३॥

सा क्रन्दितं चिराच्छ्रुत्वा धर्मिष्ठा पतिमब्रवीत्।
पश्य स्वयं मुनिश्रेष्ठ सशब्दस्तनयस्तव ॥३४॥

त्रस्ता सा निर्जगामाथ गृहमध्यात् तपस्विनी।
स चापि ब्राह्मणश्रेष्ठः समपश्यत तं शिशुम् ॥३५॥

वर्णरूपादिसंयुक्तं यथा स्वतनयं तथा।
ततो विहस्य प्रोवाच कोशकारो निजां प्रियाम् ॥३६॥

एतेनाविश्य धर्मिष्ठे भाव्यं भूतेन साम्प्रतम्।
कोऽप्यस्माकं छलयितुं सुरूपी भुवि संस्थितः ॥३७॥

इत्युक्त्वा वचनं मन्त्री मन्त्रैस्तं राक्षसात्मजम्।
बबन्धोल्लिख्य वसुधां सकुशेनाथ पाणिना ॥३८॥

एतस्मिन्नन्तरे प्राप्ता सूर्पाक्षी विप्रबालकम्।
अन्तर्धानगता भूमौ चिक्षेप गृहदूरतः ॥३९॥

तं क्षिप्तमात्रं जग्राह कोशकारः स्वकं सुतम्।
सा चाभ्येत्य ग्रहीतुं स्वं नाशकद् राक्षसी सुतम् ॥४०॥

इतश्चेतश्च विभ्रष्टा सा भर्तारमुपागमत्।
कथयामासा यद् वृत्तं स्वद्विजात्मजहारिणम् ॥४१॥

एवं गतायं राक्षस्यां ब्राह्मणेन महात्मना।
स राक्षसशिशुर्ब्रह्मन् भार्यायै विनिवेदितः ॥४२॥

स चात्मतनयः पित्रा कपिलायाः सवत्सयाः।
दध्ना संयोजितोऽत्यर्थं क्षीरेणेक्षुरसेन च ॥४३॥

द्वावेव वर्धितौ बालौ संजातौ सप्तवार्षिकौ।
पित्रा च कृतनामानौ निशाकरदिवाकरौ ॥४४॥

नैशाचरिर्दिवाकीर्तिर्निशाकीर्तिः स्वपुत्रकः।
तयोश्चकार विप्रोऽसौ व्रतबन्धक्रियां क्रमात् ॥४५॥

व्रतबन्धे कृते वेदं पपाठासौ दिवाकरः।
निशाकरो जडतया न पपाठेति नः श्रुतम् ॥४६॥

तं बान्धवाश्च पितरौ माता भ्राता गुरुस्तथा।
पर्यनिन्दंस्तथा ये च जना मलयवासिनः ॥४७॥

ततः स पित्रा क्रुद्धेन क्षिप्तः कूपे निरूदके।
महाशिलां चोपरि वै पिधानमवरोपयत् ॥४८॥

एवं क्षिप्तस्तदा कूपे समतीतेषु भार्गव।
तस्य माताऽगमत् कूपं तमन्धं शिलयाचितम् ॥४९॥

ततो दशसु वर्षेषु समतीतेषु भार्गव।
तस्य माताऽगमत् कूपं तमन्धं शिलयाचितम् ॥५०॥

सा दृष्टावा निचितं कूपं शिलया गिरिकल्पया।
उच्चैः प्रोवाच केनेयं कूपोपरि शिला कृता ॥५१॥

कूपान्तस्थः स तां वाणीं श्रुत्वा मातुर्निशाकरः।
प्राह प्रदत्ता पित्रा मे कूपोपरि शिला त्वियम् ॥५२॥

साऽतिभीताऽब्रवीत् कोऽसि कूपान्तस्थोऽद्भुतस्वरः।
सोऽप्याह तव पुत्रोऽस्मि निशाकरेति विश्रुतः ॥५३॥

साऽब्रवीत् तनयो मह्यं नाम्ना ख्यातो दिवाकरः।
निशाकरेति नाम्नाऽहो न कश्चित् तनयोऽस्ति मे ॥५४॥

स चाह पूर्वचरितं मातुर्निरवशेषतः।
सा श्रुत्वा तां शिलां सुभ्रूः समुत्क्षिप्यान्यतोऽक्षिपत् ॥५५॥

सोत्तीर्य कूपात् भगवन् मातुः पादाववन्दत।
सा स्वानुरूपं तनयं दृष्ट्वा स्वसुतस्य च ॥५६॥

ततस्तमादाय सुतं धर्मिष्ठा पतिमेत्य च।
कथयामास तत्सर्वं चेष्टितं स्वसुतस्य च ॥५७॥

ततोऽन्वपृच्छद् विप्रोऽसौ किमिदं तात कारणम्।
नोक्तवान् यद्भवान् पूर्वं महत्कौतूहलं मम ॥५८॥

तच्छ्रुत्वा वचनं धीमान् कोशकारं द्विजोत्तमम्।
प्राह पुत्रोऽद्भुतं वाक्यं मातरं पितरं तथा ॥५९॥

श्रूयतां कारणं तात येन मूकत्वमाश्रितम्।
मया जडत्वमनघ तथाऽन्धत्वं स्वचक्षुषः ॥६०॥

पूर्वमासमहं विप्र कुले वृन्दारकस्य तु।
वृषाकपेश्च तनयो मालागर्भसमुद्भवः ॥६१॥

ततः पिता पाठयन्मां शास्त्रं धर्मार्थकामदम्।
मोक्षशास्त्रं परं तात सेतिहासश्रुतिं तथा ॥६२॥

सोऽहं तात महाज्ञानी परावरविशारदः।
जातो मदान्धस्तेनाहं दुष्कर्माभिरतोऽभवम् ॥६३॥

मदात् समभवल्लेभस्तेन नष्टा प्रगल्भता।
विवेको नाशमगमत् मूर्खभावमुपागतः ॥६४॥

मूढ भावतया चाथ जातः पापरतोऽस्म्यहम्।
परदारपरार्थेषु मतिर्मे च सदाऽभवत् ॥६५॥

परदाराभिमर्शित्वात् परार्थहरणादपि।
मृतोऽस्म्युद्बन्धनेनाहं नरकं रौरवं गतः ॥६६॥

तस्माद् वर्षसहस्रान्ते भुक्तशिष्टे तदागसि।
अरण्ये मृगहा पापः संजातोऽहं मृगाधिपः ॥६७॥

व्याघ्रत्वे संस्थितस्तात बद्धः पञ्जरगः कृतः।
नराधिपेन विभुना नीतश्च नगरं निजम् ॥६८॥

बद्धस्य पिञ्जरस्थस्य व्याघ्रत्वेऽधिष्ठितस्य ह।
धर्मार्थकामशास्त्राणि प्रत्यभासन्त सर्वशः ॥६९॥

ततो नृपतिशार्दूलो गदापाणिः कदाचन।
एकवस्त्रपरीधानो नगरान्निर्ययौ बहिः ॥७०॥

तस्य भार्या जिता नाम रूपेणाप्रतिमा भुवि।
सा निर्गते तु रमणे ममान्तिकमुपागता ॥७१

तां दृष्ट्वा ववृधे मह्यं पूर्वाभ्यासान्मनोभवः।
यथैव धर्मशास्त्राणि तथाहमवदं च ताम् ॥७२॥

राजपुत्रि सुकल्याणि नवयौवनशालिनि।
चित्तं हरसि मे भीरु कोकिला ध्वनिना यथा ॥७३॥

सा मद्वचनमाकर्ण्य प्रोवाच तनुमध्यमा।
कथमेवावयोर्व्याघ्र रतियोगमुपेष्यति ॥७४॥

ततोऽहमब्रुवं तात राजपुत्रीं सुमध्यमाम्।
द्वारमुद्घाटयस्वाद्य निर्गमिष्यामि सत्वरम् ॥७५॥

साऽप्यब्रवीद् दिवा व्याघ्र लोकोऽयं परिपश्यति।
रात्रावुद्घाटयिष्यामि ततो रंस्याव स्वेच्छया ॥७६॥

तामेवाहमवोचं वै कालक्षेपेऽहमक्षमः।
तस्मादुद्घाटय द्वारं मां बन्धाच्च विमोचय ॥७७॥

ततः सा पीवरश्रेणी द्वारमुद्घाटयन्मुने।
उद्घाटिते ततो द्वारे निर्गतोऽहं बहिः क्षणात् ॥७८॥

पाशानि निगडादीनि छिन्नानि हि बलान्मया।
सा गृहीता च नृपतेर्भार्या रमितुमिच्छता ॥७९॥

ततो दृष्टोऽस्मि नृपतेर्भृत्यैरतुलविक्रमैः।
शस्त्रहस्तैः सर्वतश्च तैरहं परिवेष्टितः ॥८०॥

महापाशैः श्रृङ्खलाभिः समाहत्य च मुद्गरैः।
वध्यमानोऽब्रुवमहं मा मा हिंसध्वमाकुलाः ॥८१॥

ते मद्वचनमाकर्ण्य मत्वैव रजनीचरम्।
दृढं वृक्षे समुद्बध्य घातयन्त तपोधन ॥८२॥

भयो गतश्च नरकं परदारनिषेवणात्।
मुक्तो वर्षसहस्रान्ते जातोऽहं श्वेतगर्दभः ॥८३॥

ब्राह्मणस्याग्निवेश्यस्य गेहे बहुकलत्रिणः।
तत्रापि सर्वविज्ञानं प्रत्यभासत् ततो मम ॥८४॥

उपवाह्यः कृतश्चास्मि द्विजयोषिद्भिरादरात्।
एकदा नवराष्ट्रीया भार्या तस्याग्रजन्मनः ॥८५॥

विमतिर्नामतः ख्याता गन्तुमैच्छद्‌ गृहं पितुः।
तामुवाच पतिर्गच्छ आरुह्यं श्वेतगर्दभम् ॥८६॥

मासेनागमनं कार्यं न स्थेयं परतस्ततः।
इत्येवमुक्ता सा भर्त्रा तन्वी मामधिरुह्य च ॥८७॥

बन्धनादवमुच्याथ जगाम त्वरिता मुने।
ततोऽर्धपथि सा तन्वी मत्पृष्ठादवरुह्य वै ॥८८॥

अवतीर्णा नदीं स्नातुं स्वरूपा चार्द्रवाससा।
साङ्गोपाङ्गां रूपवतीं दृष्ट्वा तामहमाद्रवम् ॥८९॥

मया चाभिद्रुता तूर्णं पतिता पृथिवीतले।
तस्यामुपरि भो तात पतितोऽहं भृशातुरः ॥९०॥

हृष्टो भर्त्रानुसृष्टेन नृणा तदनुसारिणा।
प्रोत्क्षिप्य यष्टिं मां ब्रह्मन् समाधावत् त्वरान्वितः ॥९१॥

तद् भयात् तां परित्यज्य प्रद्रुतो दक्षिणामुखः।
ततोऽभिद्रवतस्तूर्ण खलीनरसना मुने ॥९२॥

ममासक्ता वंशगुल्मे दुर्मोक्षे प्राणनाशने।
तत्रासक्तस्य षड्‌रात्रान्ममाभूज्जीवितक्षयः ॥९३॥

गतोऽस्मि नरकं भूयस्तस्मान्मुक्तोऽभवं शुकः।
महारण्ये तथा बद्धः शबरेण दुरात्मना ॥९४॥

पञ्जरे क्षिप्य विक्रीतो वणिक्पुत्राय शालिने।
तेनाप्यन्तः पुरवरे युवतीनां समीपतः ॥९५॥

शब्दशास्त्रविदित्येव दोषघ्नश्चेत्यवस्थितः।
तत्रासतस्तरुण्यस्ता ओदनाम्बुफलादिभिः ॥९६॥

भक्ष्यैश्च दाडिमफलैः पुष्णन्त्यहरहः पितः।
कदाचित् पद्मपत्राक्षी श्यामा पीनपयोधरा ॥९७॥

सुश्रोणी तनुमध्या च वणिक्पुत्रप्रिया शुभा।
नाम्ना चन्द्रावली नाम समुद्घाट्याथ पञ्जरम् ॥९८॥

मां जग्राह सुचार्वङ्गी कराभ्यां चारुहासिनी।
चकारोपरि पीनाभ्यां कराभ्यां चारुहासिनी ॥९९॥

चकारोपरि पीनाभ्यां स्तनाभ्यां सा हि मां ततः ।
ततोऽहं कृतवान् भावं तस्यां विलसितुं प्लवन् ॥१००॥


ततोऽनुप्लपतस्तत्र हारे मर्कटबन्धनम् ।
बद्धोऽहं पापसंयुक्तो मृतश्च तदनन्तरम् ॥१०१॥


भूयोऽपि नरकं घोरं प्रपन्नोऽस्मि सुदुर्मतिः।
तस्माच्चाहं वृषत्वं वै गतश्चाण्डालपक्वणे ॥१०२॥


स चैकदा मां शकटे नियोज्य स्वां विलासिनीम्।
समारोप्य महातेजा गन्तुं कृतमतिर्वनम्। ॥१०३॥


ततोऽग्रतः स चण्डालो गतस्त्वेवास्य पृष्ठतः।
गायन्ती याति तच्छ्रुत्वा जातोऽहं व्यथितेन्द्रियः ॥१०४॥


पृष्ठतस्तु समालोक्य विपर्यस्तस्तथोत्प्लुतः ॥१०४॥
पतितो भूमिमगमम् तदक्षे क्षणविक्रमात्

योक्त्रे सुबद्ध एवास्मि पञ्चत्वमगमं ततः।
भूयो निमग्नो नरके दशवर्षशतान्यपि  ॥१०५॥

अतस्तव गृहे जातस्त्वहं जातिमनुस्मरन्।
तावन्त्येवाद्य जन्मानि स्मरामि चानुपूर्वशः  ॥१०६

पूर्वाभ्यासाच्च शास्त्राणि बन्धनं चागतं मम।
तदहं जातविज्ञानो नाचरिष्ये कथंचन  ॥१०७

पापानि घोररूपाणि मनसा कर्मणा गिरा।
शुभं वाप्यशुभं वापि स्वाध्यायं शास्त्रजीविका  ॥१०८

बन्धनं वा वधो वाऽपि पूर्वाभ्यासेन जायते ।
जातिं यदा पौर्विकीं तु स्मरते तात मानवः ॥१०९

तदा स तेभ्यः पापेभ्यो शुभवर्धनाय पापक्षयायाथ मुने ह्यरण्यम्।
भवान् दिवाकीर्तिमिमं सुपुत्रं गार्हस्थ्यधर्मे विनियोजयस्व ॥११०॥

तस्माद् गमिष्ये शुभवर्धनाय पापक्षयायाथ मुने ह्यरण्यम्।
भवान् दिवाकीर्तिमिमं सुपुत्रं गार्हस्थ्यधर्मे विनियोजयस्व ॥१११॥


बलिरुवाच।
इत्येवमुक्त्वा स निशाकरस्तदा प्रणम्य मातापितरौ महर्षे।
जगाम पुण्यं सदनं मुरारेः ख्यातं बदर्याश्रममाद्यमीड्यम् ॥११२॥

एवं पुराभ्यासरतस्य पुंसो भवन्ति दानाध्ययनादिकानि।
तस्माच्च पूर्वं द्विजवर्य वै मया अभ्यस्तमासीन्ननु ते ब्रवीमि ॥११३॥

दानं तपो वाऽध्ययनं महर्षे स्तेयं महापातकमग्निदाहम्।
ज्ञानानि चैवाभ्यसतां हि पूर्वं भवन्ति धर्मार्थयशांसि नाथ ॥११४॥

पुलस्त्य उवाच॥
इत्येवमुक्त्वा बलवान् स शुक्रं दैत्येश्वरः स्वः गुरुमीशितारम्।
ध्यायंस्तदास्ते मधुकैटभघ्नं नारायणं चक्रगदासिपाणिम् ॥११५॥

इति श्रीवामनपुराणे एकनवतितमोऽध्यायः  ॥९१॥

N/A


References : N/A
Last Updated : September 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.